स॒मु॒द्रस्य॒ त्वाऽव॑क॒याग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व
samudrásya tvā’vakáyāgne pári vyayāmasi | pāvakó asmábhyām̐ śivó bhava
समुद्रस्य त्वाऽवकया, अग्ने, परि व्ययामसि। पावकोऽस्मभ्यं शिवो भव।
स॒मु॒द्रस्य॑ । त्वा । अव॑क॒या । अग्ने॑ । परि॑ । व्ययामसि । पाव॒कः । अ॒स्मभ्य॑म् । शि॒वः । भ॑व ।