इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम्
imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bharāmahe matī́ḥ | yáthā śám asad dvipáde cátuṣpade víśvaṃ púṣṭaṃ grā́me asmín anāturám
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः। यथा शमसद् द्विपदे चतुष्पदे, विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्।
इमाः । रुद्राय । तवसे । कपर्दिने । क्षयद्वीराय । प्र । भरामहे । मतीः । यथा । शम् । असत् । द्विपदे । चतुष्पदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम्