नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च
námaḥ srutyā̀ya ca pathyā̀ya ca námaḥ kāṭyā̀ya ca nīpyā̀ya ca námaḥ kulyā̀ya ca sarasyā̀ya ca námo nādeyā̀ya ca vaiśántāya ca
नमः स्रुत्याय च पथ्याय च। नमः काट्याय च नीप्याय च। नमः कुल्याय च सरस्याय च। नमो नादेयाय च वैशन्ताय च॥
नमः । स्रुत्याय । च । पथ्याय । च । नमः । काट्याय । च । नीप्याय । च । नमः । कुल्याय । च । सरस्याय । च । नमः । नादेयाय । च । वैशन्ताय । च