Rishi: Vājasaneyin transmission (Yājñavalkya-tradition)
Devata: Rudra
Chandas: Yajus (non-metrical formulaic prose)
Samhita Patha (Devanagari)नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च
Transliterationnámo hrasvā́ya ca vāmanā́ya ca námo bṛhaté ca várṣīyase ca námo vṛddhā́ya ca savṛ́dhe ca námo’gryā́ya ca prathamā́ya ca
Translationनमो ह्रस्वाय च वामनाय च। नमो बृहते च वर्षीयसे च। नमो वृद्धाय च सवृधे च। नमोऽग्र्याय च प्रथमाय च।
Padapatha (Word Analysis)नमः । ह्रस्वाय । च । वामनाय । च । नमः । बृहते । च । वर्षीयसे । च । नमः । वृद्धाय । च । स-वृधे । च । नमः । अग्र्याय । च । प्रथमाय । च
Word by Wordह्रस्वायto the short (one) वामनायto Vāmana; to the dwarf वर्षीयसेto the older; to the more advanced वृद्धायto the grown; to the venerable सवृधेto the ever-increasing; to the one who grows together (with all) अग्र्यायto the foremost; to the best 
Viniyoga (Ritual Application)