इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मᳪ र॒थीनां॒ वाजा॑ना॒ᳪ सत्प॑तिं॒ पति॑म्
índraṃ víśvā avīvṛdhant samudrá-vyácasaṃ gíraḥ | rathītámaṃ rathīnāṃ vā́jānāṃ sátpatiṃ pátim
इन्द्रं विश्वा अवीवृधन् गिरः—समुद्रव्यचसं; रथीतमं रथीनां, वाजानां सत्पतिं पतिम्।
इन्द्रम् । विश्वाः । अ॒वी॒वृ॒धन् । स॒मु॒द्र-व्य॑चसम् । गिरः । र॒थीत॑मम् । र॒थीनाम् । वाजा॑नाम् । सत्प॑तिम् । पति॑म् ।