षो॒ड॒शी स्तोम॒ ओजो॒ द्रवि॑णं चतुश्चत्वारि॒ᳪश स्तोमो॒ वर्चो॒ द्रवि॑णम् । अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्व
ṣoḍaśī́ stóma ójo dráviṇaṁ cátuścatvāriṁś stómo várcó dráviṇam | agnéḥ púriṣam asy ápsó nā́ma tā́ṁ tvā víśve abhí gṛṇantu devā́ḥ | stómapṛṣṭhā ghṛtávatī́há sī́da prajā́vad asmē dráviṇā yájasva
षोडशी स्तोम ओजो द्रविणं चतुश्चत्वारिंश स्तोमो वर्चो द्रविणम्। अग्नेः पुरीषमस्यप्सो नाम तां त्वा विश्वे अभि गृणन्तु देवाः। स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणा यजस्व।
षोडशी । स्तोमः । ओजः । द्रविणम् । चतुः-चत्वारिंशः । स्तोमः । वर्चः । द्रविणम् । अग्नेः । पुरीषम् । असि । अप्सः । नाम । ताम् । त्वा । विश्वे । अभि । गृणन्तु । देवाः । स्तोम-पृष्ठा । घृत-वती । इह । सीद । प्रजा-वत् । अस्मे । द्रविणा । यजस्व