पृ॒थि॒वी छन्दो॒ ऽन्तरि॑क्षं॒ छन्दो॒ द्यौ॒श्छन्द॒: समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दो॒ मन॒श्छन्द॑: कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ ऽजाश्छन्दो ऽश्व॒श्छन्द॑:
pṛthivī chándo ’ntárikṣaṃ chándo dyáuś chándaḥ samā́ś chándo nákṣatrāṇi chándo vāk chándo mánaś chándaḥ kṛ́ṣiś chándo híraṇyaṃ chándo gáuś chándo ’jā́ś chándo ’śváś chándaḥ
पृथिवी छन्दोऽन्तरिक्षं छन्दो द्यौश्छन्दः समाश्छन्दो नक्षत्राणि छन्दो वाक् छन्दो मनश्छन्दः कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजाश्छन्दोऽश्वश्छन्दः॥
पृथिवी । छन्दः । अन्तरिक्षम् । छन्दः । द्यौः । छन्दः । समाः । छन्दः । नक्षत्राणि । छन्दः । वाक् । छन्दः । मनः । छन्दः । कृषिः । छन्दः । हिरण्यम् । छन्दः । गौः । छन्दः । अजाः । छन्दः । अश्वः । छन्दः ।