यो अ॒ग्निर॒ग्नेरध्यजा॑यत॒ शोका॑त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेड॒: परि॑ ते वृणक्तु
yó agnír agnér ádhyajāyata śókāt pṛthivyā́ utá vā́ divás pári | yéna prajā́ viśvákarmā jajā́na tám agne héḍaḥ pári te vṛṇaktu
योऽग्निरग्नेरध्यजायत शोकात् पृथिव्या उत वा दिवः परि । येन प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्तु ॥
यः । अग्निः । अग्नेः । अधि-अजायत । शोकात् । पृथिव्याः । उत । वा । दिवः । परि । येन । प्रजाः । विश्व-कर्मा । जजान । तम् । अग्ने । हेडः । परि । ते । वृणक्तु