ध्रु॒वाऽसि॑ ध॒रुणे॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ अधि॑ जा॒तवे॑दा: । स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्
dhrúvā́si dharuṇéto jajñe prathamám ebhyó yónibhyó ádhi jātávedāḥ | sá gā́yatr̄yā́ triṣṭúbhā́ ’nuṣṭúbhā́ ca devébhyo havyáṃ vahatu prajā́nann
ध्रुवाऽसि, धारणेतोऽसि; अतो जातवेदाः प्रथमोऽभ्यो योनिभ्योऽधि जज्ञे। स गायत्या त्रिष्टुभाऽनुष्टुभा च छन्दोभिः प्रजानन् देवेभ्यो हव्यं वहतु।
ध्रु॒वा । असि॑ । ध॒रुणा । इतः । ज॑ज्ञे । प्रथ॒मम् । ए॒भ्यः । योनि॑भ्यः । अधि॑ । जा॒तवे॑दाः । सः । गा॑य॒त्र्या । त्रि॒ष्टुभा॑ । अनु॒ष्टुभा॑ । च । दे॒वेभ्यः॑ । ह॒व्यम् । व॑हतु । प्र॒जा॒नन्