विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । अ॒ग्निष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
viśvásmai prāṇā́yāpānā́ya vyānā́yodānā́ya pratiṣṭhā́yai carítrāya | agníṣ ṭvā́’bhí pātu mahyā́ svastyā́ chárdiṣā śántamena táyā devátayā’ṅgirasvád dhrúvā sīdá
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय। अग्निष्ट्वाऽभि पातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद।
विश्व॑स्मै । प्रा॒णाय॑ । अ॒पा॒नाय॑ । व्या॒नाय॑ । उ॒दा॒नाय॑ । प्र॒ति॒ष्ठायै॑ । च॒रित्रा॑य । अ॒ग्निः । त्वा॒ । अ॒भि । पा॒तु॒ । म॒ह्या । स्व॒स्त्या । छ॒र्दिषा॑ । शन्त॑मेन । तया॑ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वा । सी॒द