तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑स्पृश धृष॒ता शोशु॑चानः । तपू॑ᳪष्यग्ने जु॒ह्वा॒ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः
táva bhramā́sa āśuyā́ patanty ánuspṛś dhṛṣatá śóśucānaḥ | tapū́ṃṣy agne júhvā pataṅgā́n asanditó ví sṛja víṣvag ulkā́ḥ ||
तव शीघ्राः भ्रमासः पतन्ति; धृषता शोशुचानोऽनुस्पृश। अग्ने, जुह्वा पतङ्गान् तप; असन्दितो विश्वगुल्का वि सृज।
तव । भ्रमासः । आशुयाः । पतन्ति । अनुस्पृश । धृषता । शोशुचानः । तपूंषि । अग्ने । जुह्वा । पतङ्गान् । असन्दितः । वि । सृज । विष्वक् । उल्काः ।