यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य
yád agne kā́ni kā́ni cidā́ te dārū́ṇi dádhmasi | sárvaṃ tád astu te ghṛtáṃ táj juṣasva yaviṣṭhya
हे अग्ने, यानि यानि चिद् दारूणि ते दध्मसि, तत् सर्वं ते घृतम् अस्तु; तत् जुषस्व, यविष्ठ्य।
यत् । अग्ने । कानि । कानि । चित् । आ । ते । दारूणि । दध्मसि । सर्वम् । तत् । अस्तु । ते । घृतम् । तत् । जुषस्व । यविष्ठ्य