अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत् ख॑नत्ववट दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद्द॑धतूखे धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद॒भी॒न्धतामुखे॒ वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे॒ जन॑य॒स्त्वाच्छि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे
áditiṣ ṭvā devī viśvádevyāvatī pṛthivyā́ḥ sadhásthe aṅgirasvát khanatv avaṭ | devā́nāṃ tvā pátnīr devī́r viśvádevyāvatīḥ pṛthivyā́ḥ sadhásthe aṅgirasvád dadhatūkhe | dhiṣáṇās tvā devī́r viśvádevyāvatīḥ pṛthivyā́ḥ sadhásthe aṅgirasvád abhī́ndhatām ukhe | varū́trīs tvā devī́r viśvádevyāvatīḥ pṛthivyā́ḥ sadhásthe aṅgirasvác chrapayantūkhe | gnā́s tvā devī́r viśvádevyāvatīḥ pṛthivyā́ḥ sadhásthe aṅgirasvát pacantūkhe | jánayas tvā́cchinnapatrā devī́r viśvádevyāvatīḥ pṛthivyā́ḥ sadhásthe aṅgirasvát pacantūkhe
अदितिष्ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थेऽङ्गिरस्वत्खनत्ववट् देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधतूखे। धिषणा स्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वदभीन्धतामुखे। वरूत्रीष्ट्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वच्छ्रपयन्तूखे। ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वत्पचन्तूखे। जनयस्त्वाच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वत्पचन्तूखे।
अदितिः । त्वा । देवी । विश्वदेव्यावती । पृथिव्याः । सधस्थे । अङ्गिरस्वत् । खनतु । अवट । देवानाम् । त्वा । पत्नीः । देवीः । विश्वदेव्यावतीः । पृथिव्याः । सधस्थे । अङ्गिरस्वत् । दधतु । ऊखे । धिषणाः । त्वा । देवीः । विश्वदेव्यावतीः । पृथिव्याः । सधस्थे । अङ्गिरस्वत् । अभि-इन्धताम् । ऊखे । वरूत्रीः । त्वा । देवीः । विश्वदेव्यावतीः । पृथिव्याः । सधस्थे । अङ्गिरस्वत् । श्रपयन्तु । ऊखे । ग्नाः । त्वा । देवीः । विश्वदेव्यावतीः । पृथिव्याः । सधस्थे । अङ्गिरस्वत् । पचन्तु । ऊखे । जनयः । त्वा । अच्छिन्नपत्राः । देवीः । विश्वदेव्यावतीः । पृथिव्याः । सधस्थे । अङ्गिरस्वत् । पचन्तु । ऊखे