यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः
yuñjáte mána utá yuñjáte dhíyo víprā víprasya bṛható vipáścitaḥ | ví hótrā dadhe vayunāvíd éka ín mahī́ devásya savitúḥ páriṣṭutiḥ
युञ्जते मनः, उत युञ्जते धियः—विप्राः विप्रस्य बृहतो विपश्चितः। वयुनाविदेकः होत्राः वि दधे; मही देवस्य सवितुः परिष्टुतिः।
यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॑ञ्जते । धियः॑ । विप्राः॑ । विप्र॑स्य । बृह॒तः । वि॑प॒श्चितः॑ । वि । होत्राः॑ । द॒धे । व॒यु॒ना॒-विद् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑-स्तुतिः