अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य ब॒धाय॑ । ध॒र्त्रम॑सि॒ दिवं॑ दृᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य ब॒धाय॑ । विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ उप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम्
ágnē bráhma gṛbhṇīṣva dharuṇám asy ántárikṣaṃ dṛṃha brahmá-vani tvā kṣatrá-vani sa-jātá-vany ùpa dadhāmi bhrā́tṛvyasya badhā́ya | dhártram asi dívaṃ dṛṃha brahmá-vani tvā kṣatrá-vani sa-jātá-vany ùpa dadhāmi bhrā́tṛvyasya badhā́ya | víśvābhyas tvā́śābhyá ùpa dadhāmi cit sthordhvácito bhṛgūṇām áṅgirasāṃ tápasā tapyadhvam
अग्ने ब्रह्म गृभ्णीष्व; धरणुमसि—अन्तरिक्षं दृंह। ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि—भ्रातृव्यस्य बधाय। धर्त्रमसि—दिवं दृंह। ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि—भ्रातृव्यस्य बधाय। विश्वाभ्यस्त्वाशाभ्य उपदधामि। चितः स्थ; ऊर्ध्वचितो भृगूणामङ्गिरसां तपसा तप्यध्वम्।
अग्ने । ब्रह्म । गृभ्णीष्व । धरुणम् । असि । अन्तरिक्षम् । दृंह । ब्रह्म-वनि । त्वा । क्षत्र-वनि । स-जात-वनि । उप-दधामि । भ्रातृव्यस्य । बधाय । धर्त्रम् । असि । दिवम् । दृंह । ब्रह्म-वनि । त्वा । क्षत्र-वनि । स-जात-वनि । उप-दधामि । भ्रातृव्यस्य । बधाय । विश्वाभ्यः । त्वा । आशाभ्यः । उप-दधामि । चित् । स्थ । ऊर्ध्व-चितः । भृगूणाम् । अङ्गिरसाम् । तपसा । तप्यध्वम्