Sukta 10.94
सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः । वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥
suté adhvaré ádhi vā́cam akrata krīḷáyo ná mātáram tudántaḥ | ví ṣū muñca susu-vúṣo manīṣā́ṃ ví vartantām ádrayaś cā́yamānāḥ ||
सुतेऽध्वरेऽधि वाचमक्रत—क्रीळयो न मातरं तुदन्तः। सुषुवुषो मनीषां वि षू मुञ्चत; अद्रयश्चायमानाः स्वपरिक्रमायां विवर्तन्ताम्।