Sukta 10.91
अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः । वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोम॑: । वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥
áhāvy agne havír āsyè te srucī́va ghṛtáṃ camvī́va sómaḥ | vājásaniṃ rayím asmè suvī́raṃ praśastáṃ dhehi yaśásaṃ bṛhántam ||
आहाव्यग्ने हविरास्ये ते प्रविशति—स्रुचीव घृतं, चम्वीव सोमः। अस्मासु वाजसनिं रयिं सुवीरं प्रशस्तं यशसं बृहन्तं धेहि।
अहा॑वि । अ॒ग्ने॒ । ह॒विः । आ॒स्ये॑ । ते॒ । स्रु॒चिऽइ॑व । घृ॒तम् । च॒म्वि॑ऽइव । सोमः॑ । वा॒ज॒ऽसनि॑म् । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् । प्र॒ऽश॒स्तम् । धे॒हि॒ । य॒शस॑म् । बृ॒हन्त॑म् ॥अहावि । अग्ने । हविः । आस्ये । ते । स्रुचिइव । घृतम् । चम्विइव । सोमः । वाजसनिम् । रयिम् । अस्मे इति । सुवीरम् । प्रशस्तम् । धेहि । यशसम् । बृहन्तम् ॥ahāvi | agne | haviḥ | āsye | te | sruci-iva | ghṛtam | camvi-iva | somaḥ | vāja-sanim | rayim | asme iti | su-vīram | pra-śastam | dhehi | yaśasam | bṛhantam