Sukta 10.190
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः ॥
ṛtáṃ ca satyáṃ cābhī́ddhāt tápaso ’dhy ajāyata | táto rā́try ajāyata tátaḥ samudró arṇaváḥ ||
तपसः प्रज्वलनाद् ऋतं च सत्यं चाभिजायते; ततः रात्रिरजायत, ततः समुद्रोऽर्णवः—विस्तीर्णो भावतरङ्गः।
ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ । ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥ऋतम् । च । सत्यम् । च । अभीद्धात् । तपसः । अधि । अजायत । ततः । रात्री । अजायत । ततः । समुद्रः । अर्णवः ॥ṛtam | ca | satyam | ca | abhīddhāt | tapasaḥ | adhi | ajāyata | tataḥ | rātrī | ajāyata | tataḥ | samudraḥ | arṇavaḥ