Adhyaya 91 — The Gods’ Hymn to Kātyāyanī and the Goddess’ Prophecy of Future Manifestations
देवा ऊचुः सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥
devā ūcuḥ sarvabādhāpraśamanaṃ trailokyasyākhileśvari /
evam eva tvayā kāryam asmadvairivināśanam
देवा ऊचुः—हे सर्वेश्वरि, त्रैलोक्यस्य सर्वदुःखोपद्रवान् शमय; तथा च अस्माकं शत्रूणां विनाशं साधय।