Adhyaya 37 — Alarka’s Crisis and the Teaching on Non-Attachment (Madālasa’s Instruction Recalled)
न्यूूनातिरिक्ततां याति पञ्चकेऽस्मिन् सुखासुखम् ।
यदि स्यान्म किन्न स्यादन्यस्थेऽपि हि तन्मयि ॥
nyūnātiriktatāṃ yāti pañcake ’smin sukhāsukham | yadi syān ma kin na syād anyasthe ’pi hi tan-mayi ||
सुखदुःखे पञ्चविधेऽस्मिन् पिण्डसमूहे न्यूनाधिक्यरूपेण दृश्येते। यदि तौ मम स्वभावगतौ स्याताम्, तर्हि अस्माद् भिन्नदेशेऽपि स्थितस्य मम, चैतन्यस्वरूपस्य, कथं न स्याताम्?