Adhyāya 125: Raṅga-pradarśana — Arjuna’s Entry and Astric Demonstration (रङ्गप्रदर्शनम्)
(ततः पुरोहित: स्नात्वा प्रेतकर्मणि पारग: । हिरण्यशकलान्याज्यं तिलान् दधि च तण्डुलान् ।।
tataḥ purohitaḥ snātvā pretakarmaṇi pāragāḥ | hiraṇyaśakalāny ājyaṃ tilān dadhi ca taṇḍulān || udakumbhaṃ saparaśuṃ samānīya tapassvibhiḥ | aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ || kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām || ahatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ | udakaṃ kṛtavāṃs tatra purohitamate sthitaḥ || arhatas tasya kṛtyāni śataśṛṅganivāsinaḥ | tāpasā vidhivac cakruś cāraṇā ṛṣibhiḥ saha ||
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः । हिरण्यशकलान्याज्यं तिलान् दधि च तण्डुलान् ॥ उदकुम्भं सपरशुं समानीय तपस्विभिः । अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः ॥ काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् ॥ अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः । उदकं कृतवांस्तत्र पुरोहितमते स्थितः ॥ अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः । तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह ॥ इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डूपरमे चतुर्विंशत्यधिकशततमोऽध्यायः ॥
वैशम्पायन उवाच