Pratisarga-pravartana (How Re-Creation Proceeds) / पुनःसर्ग-प्रवर्तन
एते ते नैमिषेया वै दृष्ट्वा स्पृष्ट्वा च वै तदा / जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः
ete te naimiṣeyā vai dṛṣṭvā spṛṣṭvā ca vai tadā / jagmuścāvabhṛthasnātāḥ svargaṃ sarve tu satriṇaḥ
एते नैमिषेयाः तदा तं दृष्ट्वा स्पृष्ट्वा च, अवभृथस्नाताः सर्वे सत्रिणः स्वर्गं जग्मुः।