Śrīpura-Nirmāṇa-Prastāva (Inquiry into Śrīpura and its Construction) / “The Proposal to Build Śrīpura”
तदा देवा महेन्द्राद्याः सन्तोषं बहु भेजिरे / अथ कामेश्वरस्यापि ललितायाश्च शोभनम् / नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः
tadā devā mahendrādyāḥ santoṣaṃ bahu bhejire / atha kāmeśvarasyāpi lalitāyāśca śobhanam / nityopabhogasarvārthaṃ mandiraṃ kartumutsukāḥ
तदा महेन्द्रादयः सर्वे देवा बहु सन्तोषं भेजिरे। अथ कामेश्वरस्य ललितायाश्च नित्योपभोगसर्वार्थं शोभनं मन्दिरं कर्तुमुत्सुकाः।