Viśukra–Viṣaṅga-vadha (The Slaying of Viśukra and Viṣaṅga) — Lalitopākhyāna
अथ श्रीललितावामहस्तमध्याङ्गुलीनखात् / आविर्बभूव तालाङ्कः क्रोधमध्यारुणेक्षणः
atha śrīlalitāvāmahastamadhyāṅgulīnakhāt / āvirbabhūva tālāṅkaḥ krodhamadhyāruṇekṣaṇaḥ
अथ श्रीललितायाः वामहस्तस्य मध्याङ्गुलीनखात् क्रोधमध्यारुणेक्षणः तालाङ्को नाम वीरः सहसा आविर्बभूव।