भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
अथ निलपताका च विजया च जयोद्धते / जंबुकाक्षं जृंभणं च व्यतन्वातां रणे बलिम् / सर्वमङ्गलिका नित्या तीक्ष्णशृङ्गमखण्डयत् / ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम्
atha nilapatākā ca vijayā ca jayoddhate / jaṃbukākṣaṃ jṛṃbhaṇaṃ ca vyatanvātāṃ raṇe balim / sarvamaṅgalikā nityā tīkṣṇaśṛṅgamakhaṇḍayat / jvālāmālinikā nityā jaghānograṃ trikarṇakam
अथ नीलपताका च विजया च जयोध्दते। जम्बुकाक्षं जृम्भणं च रणे बलिं व्यतन्वाताम्॥ सर्वमङ्गलिका नित्या तीक्ष्णशृङ्गं व्यखण्डयत्। ज्वालामालिनिका नित्या त्रिकर्णकमुग्रं जघान॥