भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
प्रशमय्य महादर्पं पार्ष्णिग्राहप्रवर्तिनाम् / सहसैवागमिष्यामः सेवितुं श्रीपदांबुजम् / आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनाम्
praśamayya mahādarpaṃ pārṣṇigrāhapravartinām / sahasaivāgamiṣyāmaḥ sevituṃ śrīpadāṃbujam / ājñāṃ dehi mahārājñi mardanārthaṃ durātmanām
पार्ष्णिग्राहप्रवर्तिनां महादर्पं प्रशमय्य, सहसैव आगमिष्यामः श्रीपदाम्बुजं सेवितुम्; महाराज्ञि, दुरात्मनां मर्दनार्थम् आज्ञां देहि।