भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
वहन्मुहर्वीज्यमानं चामराणां चतुष्टयम् / उत्तङ्गकेतुसंघातलिखितांबुदमण्डलः
vahanmuharvījyamānaṃ cāmarāṇāṃ catuṣṭayam / uttaṅgaketusaṃghātalikhitāṃbudamaṇḍalaḥ
मुहुर् वहन् रथः चामराणां चतुष्टयेन वीज्यमानः; उत्तङ्ग-केतु-संघातैः लिखितम् इव अम्बुदमण्डलं यस्य सः।