भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
श्रुत्वोदन्तं महाराज्ञी कृपापाङ्गेन सैक्षत / तदालोकनमात्रेण व्रणो निर्व्रणतामगात्
śrutvodantaṃ mahārājñī kṛpāpāṅgena saikṣata / tadālokanamātreṇa vraṇo nirvraṇatāmagāt
श्रुत्वा तद्वृत्तान्तं महराज्ञी कृपापाङ्गेन तमवैक्षत। तस्याः केवलदर्शनमात्रेणैव स व्रणो निर्व्रणतामगात्॥