Ābhūta-saṃplava & Loka-vibhāga
Dissolution Threshold and the Fourteen Abodes
त्रसरेणवो ऽथ ये ऽप्यष्टौ रथरेणुस्तु सस्मृतः / ते ऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः
trasareṇavo 'tha ye 'pyaṣṭau rathareṇustu sasmṛtaḥ / te 'pyaṣṭau samavāyasthā bālāgraṃ tatsmṛtaṃ budhaiḥ
त्रसरेणवोऽप्यष्टौ यदा समवायं यान्ति, तदा ‘रथरेणुः’ इति स्मृतः; तेषामप्यष्टानां समवायस्थं ‘बालाग्रम्’ इति बुधैः स्मृतम्।