Daṇḍanātha-Śyāmalā Senāyātrā (The Marshal Śyāmalā’s Military Procession) / दण्डनाथश्यामला सेनायात्रा
उदयत्सहत्स्रमहसा सहस्रतो ऽप्यतिपाटलं निजवपुः प्रभाझरम् / किरती दिशासु वदनस्य कान्तिभिः सृजतीव चन्द्रमयमभ्रमण्डलम्
udayatsahatsramahasā sahasrato 'pyatipāṭalaṃ nijavapuḥ prabhājharam / kiratī diśāsu vadanasya kāntibhiḥ sṛjatīva candramayamabhramaṇḍalam
उदयत्सहस्रमहसा निजवपुः सहस्रतोऽपि अतिपाटलं प्रभाझरम्; वदनकान्तिभिः दिशः किरन्ती चन्द्रमयमिव अभ्रमण्डलं सृजतीव।