Mānasasṛṣṭi-varṇana (Account of Mind-born Creation) | मानससृष्टिवर्णनम्
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् / श्रद्धा कामं प्रजज्ञे ऽथ दर्पो लक्ष्मी सुतः स्मृतः
manvantareṣu sarveṣu yāvadābhūtasaṃplavam / śraddhā kāmaṃ prajajñe 'tha darpo lakṣmī sutaḥ smṛtaḥ
सर्वेषु मन्वन्तरेषु यावत् आभूतसंप्लवम्। श्रद्धा कामं प्रसूता, दर्पो लक्ष्म्याः सुतः स्मृतः॥