Mānasasṛṣṭi-varṇana (Account of Mind-born Creation) | मानससृष्टिवर्णनम्
ततस्तस्मिन्समुद्भूते मिथुने वरणात्मके / ततः स भगवानासीत् प्रीतश्चैतं हि शिश्रिये
tatastasminsamudbhūte mithune varaṇātmake / tataḥ sa bhagavānāsīt prītaścaitaṃ hi śiśriye
ततः तस्मिन् समुद्भूते मिथुने वरणात्मके । ततः स भगवान् प्रीतः आसीत्, एतं हि शिश्रिये ॥