व्यासशिष्योत्पत्तिवर्णन (Origins/Enumeration of Vyāsa’s Disciplic Succession) — Chapter on Vedic Transmission Lineages
नाभिर्वित्तस्तु तेजस्वी त्रिविधा कौशुमाः स्मृताः / शौरिषुः शृङ्गिपुत्रश्च द्वावेतौ तु चिरव्रतौ
nābhirvittastu tejasvī trividhā kauśumāḥ smṛtāḥ / śauriṣuḥ śṛṅgiputraśca dvāvetau tu ciravratau
नाभिर्वित्तो नाम तेजस्वी मुनिः; कौशुमाः त्रिविधाः स्मृताः। शौरिषुः तथा शृङ्गिपुत्रः—एतौ द्वौ चिरव्रतौ मुनिवरौ।