युगप्रजालक्षणम् ऋषिप्रवरवर्णनं च
Yuga–Prajā-Lakṣaṇa and the Enumeration of Eminent Ṛṣis
मन्त्रो मन्त्रयतेर्द्धातोर्ब्राह्मणो ब्राह्मणेन तु / अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् / अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः
mantro mantrayaterddhātorbrāhmaṇo brāhmaṇena tu / alpākṣaramasaṃdigdhaṃ sāravadviśvatomukham / astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ
मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्राह्मणेन तु । अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥