Amāvasyā-Pitṛtarpaṇa: Purūravas and the Soma-Based Ancestral Offering (अमावस्या-पितृतर्पण / सोमतर्पण-विधि)
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपाद दारुवनप्रवेशभस्मस्नानविधिर्नाम सप्तविंशतितमो ऽध्यायः ऋषिरुवाच अगात्कथममावस्यां मासि मासि दिवं नृपः / ऐलः पुरूरवाः सूत कथं वातर्पयत्पितॄन्
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāda dāruvanapraveśabhasmasnānavidhirnāma saptaviṃśatitamo 'dhyāyaḥ ṛṣiruvāca agātkathamamāvasyāṃ māsi māsi divaṃ nṛpaḥ / ailaḥ purūravāḥ sūta kathaṃ vātarpayatpitṝn
इति श्रीब्रह्माण्डमहापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ‘अनुषङ्गपाद-दारुवनप्रवेश-भस्मस्नानविधि’र्नाम सप्तविंशतितमोऽध्यायः। ऋषिरुवाच—अगात्कथममावस्यां मासि मासि दिवं नृपः? ऐलः पुरूरवाः सूत, कथं वा तर्पयत्पितॄन्?