अधोलोकवर्णनम् (Adholoka-varṇana) — Description of the Lower Worlds and Cosmographic Measures
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् / यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् / धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram / yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam / dharmadhruvādyāstiṣṭhanti yatra te lokasādhakāḥ
एतद् विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम्; यत्र गत्वा न शोचन्ति, तद् विष्णोः परमं पदम्। धर्मध्रुवादयश्चैव यत्र तिष्ठन्ति लोकसाधकाः।