अधोलोकवर्णनम् (Adholoka-varṇana) — Description of the Lower Worlds and Cosmographic Measures
पञ्चाशत्तु सहस्राणि पृथिव्यर्द्धस्य मण्डलम् / गणितं योजनाग्रात्तु कोट्यस्त्वेकादश स्मृताः
pañcāśattu sahasrāṇi pṛthivyarddhasya maṇḍalam / gaṇitaṃ yojanāgrāttu koṭyastvekādaśa smṛtāḥ
पृथिव्यर्धस्य मण्डलं पञ्चाशत्सहस्रयोजनपरिमितं गणितम्; योजनाग्रात् तु एकादश कोट्यः स्मृताः।