अधोलोकवर्णनम् (Adholoka-varṇana) — Description of the Lower Worlds and Cosmographic Measures
योजनानां सहस्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् / प्रयाति भगवानाशु ब्राह्मणैरभिरक्षितः / वालखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः
yojanānāṃ sahasrāṇi ūrddhvamuttiṣṭhate śatam / prayāti bhagavānāśu brāhmaṇairabhirakṣitaḥ / vālakhilyaiśca munibhirdhṛtārciḥ samarīcibhiḥ
स भगवान् ब्राह्मणैः परिरक्षितः, वालखिल्यैः समरीचिभिर्मुनिभिश्च धृतार्चिः, शीघ्रं शतसहस्रयोजनानि ऊर्ध्वं प्रयाति।