कैलास-मन्दाकिनी-स्वच्छोदा-लौहित्य-सरयू-उद्गमवर्णनम्
Kailāsa and the Origins of Mandākinī, Svacchodā, Lauhitya, and Sarayū
रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु / अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः
rudrakāntamiti khyātaṃ nirmitaṃ tadbhavena tu / anye cāpyatra vikhyātāḥ padmāmīnadvijākulāḥ
तत् सरः ‘रुद्रकान्तम्’ इति ख्यातं, तद्भवेन निर्मितम्। अत्रान्येऽपि सरांसि विख्यातानि, पद्मैः मीनैः द्विजैश्चाकुलानि।