Pṛthivyāyāma-vistara (Extent and Divisions of the Earth) / पृथिव्यायामविस्तरः
द्वीपो ह्युपनिविष्टो ऽयं म्लेच्छैरन्तेषु सर्वशः / पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः
dvīpo hyupaniviṣṭo 'yaṃ mlecchairanteṣu sarvaśaḥ / pūrve kirātā hyasyānte paścime yavanāḥ smṛtāḥ
द्वीपोऽयमन्तेषु सर्वतः म्लेच्छैः समुपनिविष्टः। अस्यान्ते पूर्वे किराताः, पश्चिमे यवनाः स्मृताः॥