Priyavrata-vaṃśa and Saptadvīpa Vibhāga (प्रियव्रतवंशः सप्तद्वीपविभागश्च)
उद्गीथस्तस्य पुत्रो ऽभूतप्रस्ताविश्चापि तत्सुतः / प्रस्तावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो ऽभवत्
udgīthastasya putro 'bhūtaprastāviścāpi tatsutaḥ / prastāvestu vibhuḥ putraḥ pṛthustasya suto 'bhavat
भूमानः पुत्रः उद्गीथोऽभूत्, तस्य सुतः प्रस्तावी च। प्रस्तावेरपि पुत्रो विभुः, विभोः सुतः पृथुः अभवत्।