Priyavrata-vaṃśa and Saptadvīpa Vibhāga (प्रियव्रतवंशः सप्तद्वीपविभागश्च)
मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै / तेषां स्वनामभिर्देशाः क्रैञ्चद्वीपाश्रयाः शुभाः
muniśca dundubhiścaiva sutā dyutimatastu vai / teṣāṃ svanāmabhirdeśāḥ kraiñcadvīpāśrayāḥ śubhāḥ
द्युतिमतः सुता मुनिः दुन्दुभिश्चैव; तेषां स्वनामभिः शुभा देशाः क्रैञ्चद्वीपाश्रयाः प्रथिताः।