Agnibheda–Vaṃśa: Forms of Agni, Their Functions, and Progeny (अग्निभेद-वंशः)
विस्तरेणानुपूर्व्याच्च अग्नेर्वक्ष्याम्यतः परम् / इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे ऋषिसर्गवर्णनं नामैकादशो ऽध्यायः सूत उवाच यो ऽसावग्ने रभिमानी स्मृतः स्वायंभुवे ऽन्तरे / ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत
vistareṇānupūrvyācca agnervakṣyāmyataḥ param / iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde ṛṣisargavarṇanaṃ nāmaikādaśo 'dhyāyaḥ sūta uvāca yo 'sāvagne rabhimānī smṛtaḥ svāyaṃbhuve 'ntare / brahmaṇo mānasaḥ putrastasmātsvāhā vyajāyata
अग्नेर्विस्तरेणानुपूर्व्याच्च वक्ष्याम्यतः परम्। इति श्रीब्रह्माण्डमहापुराणे… सूत उवाच—योऽसावग्ने रभिमानी स्मृतः स्वायम्भुवेऽन्तरे, ब्रह्मणो मानसः पुत्रः; तस्मात् स्वाहा व्यजायत।