पितृसर्ग-श्राद्धप्रश्नाः
Pitri-Origins and Shraddha Queries
लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः / वैराजा इति विख्याता देवानां दिवि देवता/ // ५२// योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः / देवानसृजत ब्रह्मा योगयुक्तान्सनातनान्
lokāḥ saṃtānakā nāma yatra tiṣṭhanti bhāsvarāḥ / vairājā iti vikhyātā devānāṃ divi devatā/ // 52// yogena tapasā yuktaḥ pūrvameva tadā prabhuḥ / devānasṛjata brahmā yogayuktānsanātanān
लोकाः ‘संतानकाः’ नाम यत्र भास्वराः स्थिताः। ते ‘वैराजाः’ इति विख्याताः, देवानां दिवि देवताः॥ योगतपसा युक्तः प्रभुः ब्रह्मा पूर्वमेव योगयुक्तान् सनातनान् देवान् असृजत्॥