पितृसर्ग-श्राद्धप्रश्नाः
Pitri-Origins and Shraddha Queries
सूत उवाच अत्र वो कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् / मन्वन्तरेषु जायन्ते पितरो देवसूनवः
sūta uvāca atra vo kīrtayiṣyāmi yathāprajñaṃ yathāśrutam / manvantareṣu jāyante pitaro devasūnavaḥ
सूत उवाच—अत्र वः यथाप्रज्ञं यथाश्रुतं कीर्तयिष्यामि; मन्वन्तरेषु पितरो देवसूनवो जायन्ते।