Vṛṣṇivaṃśa–Anukīrtana (Enumeration of the Vṛṣṇi Lineage) — Questions on Viṣṇu’s Human Descent
किञ्चिच्छिष्टास्तु वै यूयं युद्धे स्वल्पे तु वै स्वयम् / नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्
kiñcicchiṣṭāstu vai yūyaṃ yuddhe svalpe tu vai svayam / nītiṃ vo hi vidhāsyāmi kālaḥ kaścitpratīkṣyatām
किञ्चित् शिष्टाः स्थ यूयं वै, स्वयमेव तु स्वल्पयुद्धे। अहं तु वो नीतिं विधास्यामि; कश्चित्कालः प्रतीक्ष्यताम्॥