Yadu-vaṃśa and the Haihaya Line: From Yadu to Kārtavīrya Arjuna
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे अष्टषष्टितमो ऽध्यायः // ६८// सूत उवाच यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः / विस्तरेणानुपूर्व्या च गदतो मे निबोधत
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde aṣṭaṣaṣṭitamo 'dhyāyaḥ // 68// sūta uvāca yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ / vistareṇānupūrvyā ca gadato me nibodhata
इति श्रीब्रह्माण्डमहापुराणे वायुप्रोक्ते मध्यमभागे तृतीयोपोद्धातपादे अष्टषष्टितमोऽध्यायः। सूत उवाच— ज्येष्ठस्योत्तमतेजसो यदोर्वंशं प्रवक्ष्यामि; विस्तरेणानुपूर्व्या च मम वचनं निबोधत।