अमावसुवंशानुकीर्तनम् (Amāvasu-vaṃśānukīrtanam) — Recitation of the Amāvasu Lineage; Dhanvantari’s Origin
ऋषय ऊचुः वाराणसीं किमर्थं तां निकुंभः शप्तवान्पुरा / निकुंभश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः
ṛṣaya ūcuḥ vārāṇasīṃ kimarthaṃ tāṃ nikuṃbhaḥ śaptavānpurā / nikuṃbhaścāpi dharmātmā siddhakṣetraṃ śaśāpa yaḥ
ऋषय ऊचुः—निकुम्भः किमर्थं पुरा तां वाराणसीं शप्तवान्? धर्मात्मा सन् स सिद्धक्षेत्रं यः शशाप, तत् कथ्यताम्।