सगरदिग्विजयः
Sagara’s World-Conquest / Digvijaya
यस्याष्टादशमण्डलाधिपतिभिः सेवार्थमभ्यागतैः प्रख्यातोरुपराक्रमैर्नृपशतैर्मूर्द्धाभिषिक्तैः पृथक् / संविष्टैर्मणिविष्टरेषु नितरामध्यास्यमानामरैः शक्रस्येव विराजते दिवि सभा रत्नप्रभोद्भासिता
yasyāṣṭādaśamaṇḍalādhipatibhiḥ sevārthamabhyāgataiḥ prakhyātoruparākramairnṛpaśatairmūrddhābhiṣiktaiḥ pṛthak / saṃviṣṭairmaṇiviṣṭareṣu nitarāmadhyāsyamānāmaraiḥ śakrasyeva virājate divi sabhā ratnaprabhodbhāsitā
यस्य दिवि रत्नप्रभया उद्भासिता सभा शक्रसभेव विराजते; अष्टादशमण्डलाधिपतयः सेवायै समागताः, प्रख्यातपराक्रमैः मूर्धाभिषिक्तैः नृपशतैः पृथक्, मणिविष्टरेषु उपविष्टैः अमरैः नितरामध्यास्यमाना।