Vasiṣṭha-gamana
Vasiṣṭha’s Departure / The Episode of Sagara
शत्रून्हन्तुं प्रतस्थे निजबलनिवहेनोत्पतद्भिस्तुरङ्गैर्नासत्त्वोर्मिजालाकुलजलनिधिनिभेनाथ षाडङ्गिकेन / मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन श्वेतच्छत्रध्वजौघैरपि शशिसुकराभातखेनैव सार्द्धम्
śatrūnhantuṃ pratasthe nijabalanivahenotpatadbhisturaṅgairnāsattvormijālākulajalanidhinibhenātha ṣāḍaṅgikena / mattairmātaṅgayūthaiḥ sakulagirikulenaiva bhūmaṇḍalena śvetacchatradhvajaughairapi śaśisukarābhātakhenaiva sārddham
शत्रून्हन्तुं प्रतस्थे स निजबलनिवहेनोत्पतद्भिस्तुरङ्गैः, षाडङ्गिकेन नासत्त्वोर्मिजालाकुलजलनिधिनिभेन; मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन, श्वेतच्छत्रध्वजौघैः शशिसुकराभातखेन सार्द्धम्।